CompletedWebinar

भारते आधुनिकसंस्कृतसाहित्यचर्चा

Date & Time
15 Sep 2020, 03:00 PM to 15 Sep 2020, 05:00 PM
Organizer
Department of Sanskrit
Registration Fee
FREE
Speaker / Resource Person

आचार्या गोपबन्धुमिश्रवर्या, ड. शुभ्रजित्सेनवर्या

About the Programme
प्रियाः सुधियः! सबं-सजनीकान्तमहाविद्यालयपक्षतो भवद्भ्यः सर्वेभ्यः हार्दम् अभिनन्दनम्। अस्माकं महाविद्यालयस्य स्नातकोत्तरसंस्कृतविभागेन “भारते आधुनिकसंस्कृतसाहित्यचर्चा” इति विषयमाधारीकृत्य सेप्टेम्बरमासस्य पञ्चदशे अहनि अपराह्णे त्रिवादने एकदिवसीयराष्ट्रियान्तर्जालिकसंगोष्ठी समायोज्यते। अस्यां संगोष्ठ्यां भागं गृहीत्वा भवन्तः सर्वे संस्कृतरसामृतम् आस्वादयन्तु इति महाविद्यालयपक्षतो वयमाशास्महे। सम्माननीयाः सम्भाषकाः आचार्या गोपबन्धुमिश्रवर्याः, सम्माननीयाः कुलपतयः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः ड. शुभ्रजित्सेनवर्याः, सहायकाचार्याः, संस्कृतविभागः, गौडबङ्गविश्वविद्यालयः काश्चन सूचनाः पञ्जीकरणम् – निश्शुल्कम्। पञ्जीकरणार्थं https://app.sabangcollege.ac.in/webinars इति अन्तर्जालपुटं गत्वा यथास्थलं तथ्यानि प्रयच्छन्तु। तदनु भवतां स्वप्रदत्तदूरवाणीसंख्यायां sms-माध्यमेन पञ्जीकरणसंख्या गमिष्यति। ततः चर्चाचक्रदिवसे यथासमयं JOIN-इत्याख्यं स्थलं गत्वा स्वपञ्जीकरणसंख्यां प्रदाय चर्चाचक्रं प्रविशन्तु। इयं संगोष्ठी Google Meet-माध्यमेनैव भविष्यति। तदर्थं सर्वे चर्चाचक्रे योगदानात् प्रागेव स्वदूरवाण्यां संगणके वा व्यवस्थां सम्पादयन्तु। ई-शंसापत्रं सर्वेभ्यः प्रदास्यते। शंसापत्रप्राप्त्यर्थं चर्चासत्रस्य समापनान्तरम् अन्तर्जालपुटे संस्कृतविभागीयचर्चासत्रीयविवरणस्थले DOWNLOAD E-CERTIFICATE इति स्थलं प्रविश्य चर्चासम्बन्धिस्वीयानुभावान् यथास्थलं सम्यक् प्रयच्छन्तु। ई-शंसापत्रं स्वत एव भवतां यन्त्रे Download भविष्यति। चर्चासत्रविषये अधिकज्ञानाय ड.गगनचन्द्रदेमहाभागेन सह ८२५०४५९०२२ इति दूरवाणीसंख्यायां सम्पर्कं कुर्वन्तु। अनुष्ठानसूची वैदिकमङ्गलाचरणम् - श्रीमान् सुमन्तचौधुरी, सहायकाचार्यः, संस्कृतविभागः, सबं-सजनीकान्तमहाविद्यालयः स्वागतभाषणम् – ड. गगनचन्द्रदेमहाभागाः, सहायकाचार्याः, संस्कृतविभागः, सबं-सजनीकान्तमहाविद्यालयः अध्यक्षभाषणम् – ड. तपनकुमारदत्तमहाशयाः, अध्यक्षाः, सबं-सजनीकान्तमहाविद्यालयः विशिष्टव्याख्यानम् आचार्या गोपबन्धुमिश्रवर्याः, सम्माननीयाः कुलपतयः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः। ड. शुभ्रजित्सेनवर्याः, सहायकाचार्याः, संस्कृतविभागः, गौडबङ्गविश्वविद्यालयः धन्यवादज्ञापनम् – ड. भवशङ्करमुखार्जीमहाशयाः, विभागाध्यक्षाः, स्नातकोत्तरसंस्कृतविभागः, सबं-सजनीकान्तमहाविद्यालयः। PLEASE NOTE: Webinar link: To join the Webinar, Please click on the "JOIN" Tab that will remain activated during scheduled time. Visit: https://app.sabangcollege.ac.in/webinars, find your appropriate Webinar from the existing list and Join. Joining button will be activated 15 minutes before the scheduled time. E-certificate will be issued through auto-system generation process from our website. For joining this webinar, registration of Name of the participant is essential. Please register your name, then join the Webinar by using system generated participant’s specific REGISTRATION ID. Auto generation of the e-Certificate will be functional only after joining the Webinar following this process. After completion of Webinar, DOWNLOAD E-CERTIFICATE tab will be activated and participants can downloads easily their e-Certificates after submission of filled-up FEEDBACK FORM.
This programme has been completed.